ऋषिः - बृहस्पतिर्ऋषिः

देवता - सेनापतिर्देवता

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ꣳशतिः। तेऽअग्रेऽश्व॑मयुञ्जँ॒स्तेऽअ॑स्मिन् ज॒वमाद॑धुः॥७॥

स्वर सहित पद पाठ

वातः॑। वा॒। मनः॑। वा॒। ग॒न्ध॒र्वाः। स॒प्तवि॑ꣳशति॒रिति॑ स॒प्तऽवि॑ꣳशतिः। ते। अग्रे॑। अश्व॑म्। अ॒यु॒ञ्ज॒न्। ते। अ॒स्मि॒न्। ज॒वम्। आ। अ॒द॒धुः॒ ॥७॥


स्वर रहित मन्त्र

वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः। तेऽअग्रेऽश्वमयुञ्जँस्तेऽअस्मिन् जवमादधुः॥७॥


स्वर रहित पद पाठ

वातः। वा। मनः। वा। गन्धर्वाः। सप्तविꣳशतिरिति सप्तऽविꣳशतिः। ते। अग्रे। अश्वम्। अयुञ्जन्। ते। अस्मिन्। जवम्। आ। अदधुः ॥७॥