yajurveda/38/28
ऋषिः - दीर्घतमा ऋषिः
देवता - यज्ञो देवता
छन्दः - स्वराड्धृतिः
स्वरः - ऋषभः
पय॑सः। रेतः॑। आभृ॑त॒मित्याऽभृ॑तम्। तस्य॑। दोह॑म्। अ॒शी॒म॒हि॒। उत्त॑रामुत्तरा॒मित्युत्त॑राम्ऽउत्त॑राम्। समा॑म्। त्विषः॑। सं॒वृगिति॑ स॒म्ऽवृक्। क्रत्वे॑। दक्ष॑स्य। ते॒। सु॒षु॒म्णस्य॑। सु॒सु॒म्नस्येति॑ सुऽसु॒म्नस्य॑। ते॒। सु॒षु॒म्ण॒। सु॒सु॒म्नेति॑ सुऽसुम्न। अ॒ग्नि॒हु॒त इत्य॑ग्निऽहु॒तः ॥ इन्द्र॑पीत॒स्येतीन्द्रऽपीतस्य। प्र॒जाप॑तिभक्षित॒स्येति॑ प्र॒जाप॑तिऽभक्षितस्य। मधु॑मत॒ इति॒ मधु॑ऽमतः। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒ ॥२८ ॥
पयसः। रेतः। आभृतमित्याऽभृतम्। तस्य। दोहम्। अशीमहि। उत्तरामुत्तरामित्युत्तराम्ऽउत्तराम्। समाम्। त्विषः। संवृगिति सम्ऽवृक्। क्रत्वे। दक्षस्य। ते। सुषुम्णस्य। सुसुम्नस्येति सुऽसुम्नस्य। ते। सुषुम्ण। सुसुम्नेति सुऽसुम्न। अग्निहुत इत्यग्निऽहुतः ॥ इन्द्रपीतस्येतीन्द्रऽपीतस्य। प्रजापतिभक्षितस्येति प्रजापतिऽभक्षितस्य। मधुमत इति मधुऽमतः। उपहूत इत्युपऽहूतः। उपहूतस्येत्युपऽहूतस्य। भक्षयामि ॥२८ ॥