yajurveda/38/12

अश्वि॑ना घ॒र्मं पा॑त॒ꣳ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑।त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्॥१२॥

अश्वि॑ना। घ॒र्मम्। पा॒त॒म्। हार्द्वा॑नम्। अहः॑। दि॒वाभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥ त॒न्त्रा॒यिणे॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥

ऋषिः - दीर्घतमा ऋषिः

देवता - अश्विनौ देवते

छन्दः - आर्ची पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अश्वि॑ना घ॒र्मं पा॑त॒ꣳ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑।त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्॥१२॥

स्वर सहित पद पाठ

अश्वि॑ना। घ॒र्मम्। पा॒त॒म्। हार्द्वा॑नम्। अहः॑। दि॒वाभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥ त॒न्त्रा॒यिणे॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥


स्वर रहित मन्त्र

अश्विना घर्मं पातꣳ हार्द्वानमहर्दिवाभिरूतिभिः।तन्त्रायिणे नमो द्यावापृथिवीभ्याम्॥१२॥


स्वर रहित पद पाठ

अश्विना। घर्मम्। पातम्। हार्द्वानम्। अहः। दिवाभिः। ऊतिभिरित्यूतिऽभिः ॥ तन्त्रायिणे। नमः। द्यावापृथिवीभ्याम् ॥१२ ॥