yajurveda/34/33
ऋषिः - गोतम ऋषिः
देवता - उषर्देवता
छन्दः - निचृत परोष्णिक्
स्वरः - ऋषभः
उषः॑। तत्। चि॒त्रम्। आ। भ॒र॒। अ॒स्मभ्य॑म्। वा॒जि॒नी॒व॒तीति॑ वाजिनीऽवति ॥ येन॑। तो॒कम्। च॒। तन॑यम्। च॒। धाम॑हे ॥३३ ॥
उषः। तत्। चित्रम्। आ। भर। अस्मभ्यम्। वाजिनीवतीति वाजिनीऽवति ॥ येन। तोकम्। च। तनयम्। च। धामहे ॥३३ ॥