ऋषिः - गोतम ऋषिः
देवता - विद्वान् देवता
छन्दः - भुरिग्बृहती
स्वरः - मध्यमः
तम्। त्वा॑। शोचिष्ठ। दीदिव इति दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॑महे॒। सखि॑भ्यः इति सखिऽभ्यः। सः। नः॑। बोधि। श्रु॒धी। हवम्। उ॒रुष्य। नः॑। अघाय॒तः। अघयत इत्यघऽयतः। सम॑स्मात्॥४८॥
तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्यः इति सखिऽभ्यः। सः। नः। बोधि। श्रुधी। हवम्। उरुष्य। नः। अघायतः। अघयत इत्यघऽयतः। समस्मात्॥४८॥