yajurveda/24/18

धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णासोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः॥१८॥

धू॒म्राः। ब॒भ्रुनी॑काशाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। सोम॑वता॒मिति॒ सोम॑ऽवताम्। ब॒भ्रवः॑। धू॒म्रनी॑काशाः। धू॒म्रनि॑काशा॒ इति॑ धू॒म्रऽनि॑काशाः। पि॒तॄणाम्। ब॒र्हि॒षदा॑म्। ब॒र्हि॒सदा॒मिति बर्हि॒ऽसदा॑म्। कृ॒ष्णाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। अ॒ग्नि॒ष्वा॒त्ताना॒म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। कृ॒ष्णाः। पृष॑न्तः। त्रै॒य॒म्ब॒काः ॥१८ ॥

ऋषिः - प्रजापतिर्ऋषिः

देवता - पितरो देवताः

छन्दः - भुरिगतिजगती

स्वरः - निषादः

स्वर सहित मन्त्र

धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णासोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः॥१८॥

स्वर सहित पद पाठ

धू॒म्राः। ब॒भ्रुनी॑काशाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। सोम॑वता॒मिति॒ सोम॑ऽवताम्। ब॒भ्रवः॑। धू॒म्रनी॑काशाः। धू॒म्रनि॑काशा॒ इति॑ धू॒म्रऽनि॑काशाः। पि॒तॄणाम्। ब॒र्हि॒षदा॑म्। ब॒र्हि॒सदा॒मिति बर्हि॒ऽसदा॑म्। कृ॒ष्णाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। अ॒ग्नि॒ष्वा॒त्ताना॒म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। कृ॒ष्णाः। पृष॑न्तः। त्रै॒य॒म्ब॒काः ॥१८ ॥


स्वर रहित मन्त्र

धूम्रा बभ्रुनीकाशाः पितॄणासोमवतां बभ्रवो धूम्रनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वात्तानां कृष्णाः पृषन्तस्त्रैयम्बकाः॥१८॥


स्वर रहित पद पाठ

धूम्राः। बभ्रुनीकाशाः। बभ्रुनिकाशा इति बभ्रुऽनिकाशाः। पितॄणाम्। सोमवतामिति सोमऽवताम्। बभ्रवः। धूम्रनीकाशाः। धूम्रनिकाशा इति धूम्रऽनिकाशाः। पितॄणाम्। बर्हिषदाम्। बर्हिसदामिति बर्हिऽसदाम्। कृष्णाः। बभ्रुनिकाशा इति बभ्रुऽनिकाशाः। पितॄणाम्। अग्निष्वात्तानाम्। अग्निस्वात्तानामित्यग्निऽस्वात्तानाम्। कृष्णाः। पृषन्तः। त्रैयम्बकाः ॥१८ ॥