ऋषिः - प्रजापतिर्ऋषिः

देवता - प्रजापतिर्देवता

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

यद॑स्याऽअꣳहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व॥२८॥

स्वर सहित पद पाठ

यत्। अ॒स्याः॒। अ॒ꣳहु॒भेद्या॒ऽइत्य॑ꣳहु॒ऽभेद्याः॑। कृ॒धु। स्थू॒लम्। उ॒पात॑स॒दित्यु॑प॒ऽअत॑सत्। मु॒ष्कौ। इत्। अ॒स्याः॒। ए॒ज॒तः॒। गो॒श॒फ इति॑ गोऽश॒फे। श॒कु॒लावि॒वेति॑ शकु॒लौऽइ॑व ॥२८ ॥


स्वर रहित मन्त्र

यदस्याऽअꣳहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्याऽएजतो गोशफे शकुलाविव॥२८॥


स्वर रहित पद पाठ

यत्। अस्याः। अꣳहुभेद्याऽइत्यꣳहुऽभेद्याः। कृधु। स्थूलम्। उपातसदित्युपऽअतसत्। मुष्कौ। इत्। अस्याः। एजतः। गोशफ इति गोऽशफे। शकुलाविवेति शकुलौऽइव ॥२८ ॥