yajurveda/20/73

अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म्।ह॒विषेन्द्र॒ꣳ सर॑स्वती॒ यज॑मानमवर्द्धयन्॥७३॥

अ॒श्विना॑। गोभिः॑। इ॒न्द्रि॒यम्। अश्वे॑भिः। वी॒र्य्य᳕म्। बल॑म्। ह॒विषा॑। इन्द्र॑म्। सर॑स्वती। यज॑मानम्। अ॒व॒र्द्ध॒य॒न् ॥७३ ॥

ऋषिः - विदर्भिर्ऋषिः

देवता - अश्विसरस्वतीन्द्रा देवताः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म्।ह॒विषेन्द्र॒ꣳ सर॑स्वती॒ यज॑मानमवर्द्धयन्॥७३॥

स्वर सहित पद पाठ

अ॒श्विना॑। गोभिः॑। इ॒न्द्रि॒यम्। अश्वे॑भिः। वी॒र्य्य᳕म्। बल॑म्। ह॒विषा॑। इन्द्र॑म्। सर॑स्वती। यज॑मानम्। अ॒व॒र्द्ध॒य॒न् ॥७३ ॥


स्वर रहित मन्त्र

अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यं बलम्।हविषेन्द्रꣳ सरस्वती यजमानमवर्द्धयन्॥७३॥


स्वर रहित पद पाठ

अश्विना। गोभिः। इन्द्रियम्। अश्वेभिः। वीर्य्य᳕म्। बलम्। हविषा। इन्द्रम्। सरस्वती। यजमानम्। अवर्द्धयन् ॥७३ ॥