yajurveda/20/51
ऋषिः - गर्ग ऋषिः
देवता - इन्द्रो देवता
छन्दः - भुरिक् पङ्क्तिः
स्वरः - पञ्चमः
इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। स्ववा॒निति॒ स्वऽवा॑न्। अवो॑भि॒रित्यवः॑ऽभिः। सु॒मृ॒डी॒क इति॑ सुऽमृडी॒कः। भ॒व॒तु॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। बाध॑ताम्। द्वेषः॑। अभ॑यम्। कृ॒णो॒तु॒। सु॒वीर्य॒स्योति॑ सु॒ऽवीर्य॑स्य। पत॑यः। स्या॒म॒ ॥५१ ॥
इन्द्रः। सुत्रामेति सुऽत्रामा। स्ववानिति स्वऽवान्। अवोभिरित्यवःऽभिः। सुमृडीक इति सुऽमृडीकः। भवतु। विश्ववेदा इति विश्वऽवेदाः। बाधताम्। द्वेषः। अभयम्। कृणोतु। सुवीर्यस्योति सुऽवीर्यस्य। पतयः। स्याम ॥५१ ॥