yajurveda/20/27
ऋषिः - प्रजापतिर्ऋषिः
देवता - सोमो देवता
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
अ॒ꣳशुना॑। ते॒। अ॒ꣳशुः। पृ॒च्य॒ता॒म्। परु॑षा। परुः॑। ग॒न्धः। ते॒। सोम॑म्। अ॒व॒तु॒। मदा॑य। रसः॑। अच्युतः॑ ॥२७ ॥
अꣳशुना। ते। अꣳशुः। पृच्यताम्। परुषा। परुः। गन्धः। ते। सोमम्। अवतु। मदाय। रसः। अच्युतः ॥२७ ॥