samveda/873
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
इ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । प꣣वते । इ꣡ति꣢꣯ । दे꣣वा꣡सः꣢ । अ꣣ब्रुवन् । वाचः꣢ । प꣡तिः꣢꣯ । म꣣खस्यते । वि꣡श्व꣢꣯स्य । ई꣡शा꣢꣯नः । ओ꣡ज꣢꣯सः ॥८७३॥
इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसः ॥८७३॥