samveda/1854
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
गो꣣त्रभि꣡द꣢म् । गो꣣त्र । भि꣡द꣢꣯म् । गो꣣वि꣡द꣢म् । गो꣣ । वि꣡द꣢꣯म् । व꣡ज्र꣢꣯बाहुम् । व꣡ज्र꣢꣯ । बा꣣हुम् । ज꣡य꣢꣯न्तम् । अ꣡ज्म꣢꣯ । प्र꣣मृण꣡न्त꣢म् । प्र꣣ । मृण꣡न्त꣢꣯म् । ओ꣡ज꣢꣯सा । इ꣣म꣢म् । स꣣जाताः । स । जाताः । अ꣡नु꣢꣯ । वी꣣रयध्वम् । इ꣡न्द्र꣢꣯म् । स꣣खायः । स । खायः । अ꣡नु꣢꣯ । सम् । र꣣भध्वम् ॥१८५४॥
गोत्रभिदम् । गोत्र । भिदम् । गोविदम् । गो । विदम् । वज्रबाहुम् । वज्र । बाहुम् । जयन्तम् । अज्म । प्रमृणन्तम् । प्र । मृणन्तम् । ओजसा । इमम् । सजाताः । स । जाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । स । खायः । अनु । सम् । रभध्वम् ॥१८५४॥