samveda/1820

इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥

इ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥

ऋषिः - अग्निः पावकः

देवता - अग्निः

छन्दः - सतोबृहती

स्वरः - पञ्चमः

स्वर सहित मन्त्र

इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥

स्वर सहित पद पाठ

इ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥


स्वर रहित मन्त्र

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिꣳ रयिम् ॥१८२०॥


स्वर रहित पद पाठ

इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥१८२०॥