samveda/1760

अ꣣र्वा꣡ङ्त्रि꣢च꣣क्रो꣡ म꣢धु꣣वा꣡ह꣢नो꣣ र꣡थो꣢ जी꣣रा꣡श्वो꣢ अ꣣श्वि꣡नो꣢र्यातु꣣ सु꣡ष्टु꣢तः । त्रि꣣वन्धुरो꣢ म꣣घ꣡वा꣢ वि꣣श्व꣡सौ꣢भगः꣣ शं꣢ न꣣ आ꣡ व꣢क्षद्द्वि꣣प꣢दे꣣ च꣡तु꣢ष्पदे ॥१७६०॥

अ꣣र्वा꣢ङ् । त्रि꣣चक्रः꣢ । त्रि꣣ । चक्रः꣢ । म꣣धुवा꣡ह꣢नः । म꣣धु । वा꣡ह꣢꣯नः । र꣡थः꣢꣯ । जी꣣रा꣡श्वः꣢ । जी꣣र꣢ । अ꣣श्वः । अश्वि꣡नोः꣢ । या꣣तु । सु꣡ष्टु꣢꣯तः । सु । स्तु꣣तः । त्रिवन्धुरः꣢ । त्रि꣣ । वन्धुरः꣢ । म꣣घ꣡वा꣢ । वि꣣श्व꣡सौ꣢भगः । वि꣣श्व꣡ । सौ꣣भगः । श꣢म् । नः꣣ । आ꣢ । व꣣क्षत् । द्विप꣡दे꣢ । द्वि꣣ । प꣡दे꣢꣯ । च꣡तु꣢꣯ष्पदे । च꣡तुः꣢꣯ । प꣣दे ॥१७६०॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - अश्विनौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अ꣣र्वा꣡ङ्त्रि꣢च꣣क्रो꣡ म꣢धु꣣वा꣡ह꣢नो꣣ र꣡थो꣢ जी꣣रा꣡श्वो꣢ अ꣣श्वि꣡नो꣢र्यातु꣣ सु꣡ष्टु꣢तः । त्रि꣣वन्धुरो꣢ म꣣घ꣡वा꣢ वि꣣श्व꣡सौ꣢भगः꣣ शं꣢ न꣣ आ꣡ व꣢क्षद्द्वि꣣प꣢दे꣣ च꣡तु꣢ष्पदे ॥१७६०॥

स्वर सहित पद पाठ

अ꣣र्वा꣢ङ् । त्रि꣣चक्रः꣢ । त्रि꣣ । चक्रः꣢ । म꣣धुवा꣡ह꣢नः । म꣣धु । वा꣡ह꣢꣯नः । र꣡थः꣢꣯ । जी꣣रा꣡श्वः꣢ । जी꣣र꣢ । अ꣣श्वः । अश्वि꣡नोः꣢ । या꣣तु । सु꣡ष्टु꣢꣯तः । सु । स्तु꣣तः । त्रिवन्धुरः꣢ । त्रि꣣ । वन्धुरः꣢ । म꣣घ꣡वा꣢ । वि꣣श्व꣡सौ꣢भगः । वि꣣श्व꣡ । सौ꣣भगः । श꣢म् । नः꣣ । आ꣢ । व꣣क्षत् । द्विप꣡दे꣢ । द्वि꣣ । प꣡दे꣢꣯ । च꣡तु꣢꣯ष्पदे । च꣡तुः꣢꣯ । प꣣दे ॥१७६०॥


स्वर रहित मन्त्र

अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥


स्वर रहित पद पाठ

अर्वाङ् । त्रिचक्रः । त्रि । चक्रः । मधुवाहनः । मधु । वाहनः । रथः । जीराश्वः । जीर । अश्वः । अश्विनोः । यातु । सुष्टुतः । सु । स्तुतः । त्रिवन्धुरः । त्रि । वन्धुरः । मघवा । विश्वसौभगः । विश्व । सौभगः । शम् । नः । आ । वक्षत् । द्विपदे । द्वि । पदे । चतुष्पदे । चतुः । पदे ॥१७६०॥