samveda/1712

ऊ꣣र्ज्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे꣣ऽग्निं꣡ पा꣢व꣣क꣡शो꣢चिषम् । अ꣣स्मि꣢न्य꣣ज्ञे꣡ स्व꣢ध्व꣣रे꣢ ॥१७१२॥

ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । अ꣣ग्नि꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣢ । शो꣣चिषम् । अस्मि꣢न् । य꣣ज्ञे꣢ । स्व꣣ध्वरे꣢ । सु꣣ । अध्वरे꣡ ॥१७१२॥

ऋषिः - विरूप आङ्गिरसः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ऊ꣣र्ज्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे꣣ऽग्निं꣡ पा꣢व꣣क꣡शो꣢चिषम् । अ꣣स्मि꣢न्य꣣ज्ञे꣡ स्व꣢ध्व꣣रे꣢ ॥१७१२॥

स्वर सहित पद पाठ

ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । अ꣣ग्नि꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣢ । शो꣣चिषम् । अस्मि꣢न् । य꣣ज्ञे꣢ । स्व꣣ध्वरे꣢ । सु꣣ । अध्वरे꣡ ॥१७१२॥


स्वर रहित मन्त्र

ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥१७१२॥


स्वर रहित पद पाठ

ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकशोचिषम् । पावक । शोचिषम् । अस्मिन् । यज्ञे । स्वध्वरे । सु । अध्वरे ॥१७१२॥