samveda/1686

तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥

ऋषिः - विश्वमना वैयश्वः

देवता - इन्द्रः

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

स्वर सहित पद पाठ

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥


स्वर रहित मन्त्र

तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥१६८६॥


स्वर रहित पद पाठ

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम् ॥१६८६॥