samveda/1567

स꣡मि꣢द्धम꣣ग्निं꣢ स꣣मि꣡धा꣢ गि꣣रा꣡ गृ꣢णे꣣ शु꣡चिं꣢ पाव꣣कं꣢ पु꣣रो꣡ अ꣢ध्व꣣रे꣢ ध्रु꣣व꣢म् । वि꣢प्र꣣ꣳ हो꣡ता꣢रं पुरु꣣वा꣡र꣢म꣣द्रु꣡हं꣢ क꣣वि꣢ꣳ सु꣣म्नै꣡री꣢महे जा꣣त꣡वे꣢दसम् ॥१५६७॥

स꣡मि꣢꣯द्धम् । सम् । इ꣣द्धम् । अग्नि꣢म् । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । गि꣣रा꣢ । गृ꣣णे । शु꣣चि꣢꣯म् । पा꣣वक꣢म् । पु꣣रः꣢ । अ꣣ध्वरे꣢ । ध्रु꣣व꣢म् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । हो꣡ता꣢꣯रम् । पु꣣रुवा꣡र꣢म् । पु꣣रु । वा꣡र꣢꣯म् । अ꣣द्रु꣡ह꣢म् । अ꣣ । द्रु꣡ह꣢꣯म् । क꣣वि꣢म् । सु꣣म्नैः꣢ । ई꣣महे । जात꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् ॥१५६७॥

ऋषिः - भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा

देवता - अग्निः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स꣡मि꣢द्धम꣣ग्निं꣢ स꣣मि꣡धा꣢ गि꣣रा꣡ गृ꣢णे꣣ शु꣡चिं꣢ पाव꣣कं꣢ पु꣣रो꣡ अ꣢ध्व꣣रे꣢ ध्रु꣣व꣢म् । वि꣢प्र꣣ꣳ हो꣡ता꣢रं पुरु꣣वा꣡र꣢म꣣द्रु꣡हं꣢ क꣣वि꣢ꣳ सु꣣म्नै꣡री꣢महे जा꣣त꣡वे꣢दसम् ॥१५६७॥

स्वर सहित पद पाठ

स꣡मि꣢꣯द्धम् । सम् । इ꣣द्धम् । अग्नि꣢म् । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । गि꣣रा꣢ । गृ꣣णे । शु꣣चि꣢꣯म् । पा꣣वक꣢म् । पु꣣रः꣢ । अ꣣ध्वरे꣢ । ध्रु꣣व꣢म् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । हो꣡ता꣢꣯रम् । पु꣣रुवा꣡र꣢म् । पु꣣रु । वा꣡र꣢꣯म् । अ꣣द्रु꣡ह꣢म् । अ꣣ । द्रु꣡ह꣢꣯म् । क꣣वि꣢म् । सु꣣म्नैः꣢ । ई꣣महे । जात꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् ॥१५६७॥


स्वर रहित मन्त्र

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रꣳ होतारं पुरुवारमद्रुहं कविꣳ सुम्नैरीमहे जातवेदसम् ॥१५६७॥


स्वर रहित पद पाठ

समिद्धम् । सम् । इद्धम् । अग्निम् । समिधा । सम् । इधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् । विप्रम् । वि । प्रम् । होतारम् । पुरुवारम् । पुरु । वारम् । अद्रुहम् । अ । द्रुहम् । कविम् । सुम्नैः । ईमहे । जातवेदसम् । जात । वेदसम् ॥१५६७॥