samveda/1493

त्वं꣢ दा꣣ता꣡ प्र꣢थ꣣मो꣡ राध꣢꣯साम꣣स्य꣡सि꣢ स꣣त्य꣡ ई꣢शान꣣कृ꣢त् । तु꣣विद्युम्न꣢स्य꣣ यु꣡ज्या वृ꣢꣯णीमहे पु꣣त्र꣢स्य꣣ श꣡व꣢सो म꣣हः꣢ ॥१४९३॥

त्व꣢म् । दा꣣ता꣢ । प्र꣣थमः꣢ । रा꣡ध꣢꣯साम् । अ꣣सि । अ꣡सि꣢꣯ । स꣣त्यः꣢ । ई꣣शानकृ꣢त् । ई꣣शान । कृ꣣त् । तु꣣विद्युम्न꣡स्य꣢ । तु꣣वि । द्यु꣡म्नस्य꣢ । यु꣡ज्या꣢꣯ । आ । वृ꣣णीमहे । पुत्र꣡स्य꣢ । पु꣣त् । त्र꣡स्य꣢꣯ । श꣡व꣢꣯सः । म꣣हः꣢ ॥१४९३॥

ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ

देवता - इन्द्रः

छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)

स्वरः - पञ्चमः

स्वर सहित मन्त्र

त्वं꣢ दा꣣ता꣡ प्र꣢थ꣣मो꣡ राध꣢꣯साम꣣स्य꣡सि꣢ स꣣त्य꣡ ई꣢शान꣣कृ꣢त् । तु꣣विद्युम्न꣢स्य꣣ यु꣡ज्या वृ꣢꣯णीमहे पु꣣त्र꣢स्य꣣ श꣡व꣢सो म꣣हः꣢ ॥१४९३॥

स्वर सहित पद पाठ

त्व꣢म् । दा꣣ता꣢ । प्र꣣थमः꣢ । रा꣡ध꣢꣯साम् । अ꣣सि । अ꣡सि꣢꣯ । स꣣त्यः꣢ । ई꣣शानकृ꣢त् । ई꣣शान । कृ꣣त् । तु꣣विद्युम्न꣡स्य꣢ । तु꣣वि । द्यु꣡म्नस्य꣢ । यु꣡ज्या꣢꣯ । आ । वृ꣣णीमहे । पुत्र꣡स्य꣢ । पु꣣त् । त्र꣡स्य꣢꣯ । श꣡व꣢꣯सः । म꣣हः꣢ ॥१४९३॥


स्वर रहित मन्त्र

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥१४९३॥


स्वर रहित पद पाठ

त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानकृत् । ईशान । कृत् । तुविद्युम्नस्य । तुवि । द्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । पुत् । त्रस्य । शवसः । महः ॥१४९३॥