samveda/1414
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - पञ्चमः
अ꣣पा꣢म् । न꣡पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दी꣡दि꣢तिम् । सु꣣ । दी꣡दि꣢꣯तिम् । अ꣣ग्नि꣢म् । उ꣣ । श्रे꣡ष्ठ꣢꣯शोचिषम् । श्रे꣡ष्ठ꣢꣯ । शो꣣चिषम् । सः꣢ । नः꣣ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । सः । अ꣣पा꣢म् । आ । सु꣣म्न꣢म् । य꣣क्षते । दिवि꣢ ॥१४१४॥
अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदीदितिम् । सु । दीदितिम् । अग्निम् । उ । श्रेष्ठशोचिषम् । श्रेष्ठ । शोचिषम् । सः । नः । मित्रस्य । मि । त्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥१४१४॥