samveda/1401
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
स꣢म् । उ꣣ । प्रियः꣢ । मृ꣣ज्यते । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । य꣣श꣡स्त꣢रः । य꣣श꣡सा꣢म् । क्षै꣡तः꣢꣯ । अ꣣स्मे꣢इति꣢ । अ꣣भि꣢ । स्व꣣र । ध꣡न्व꣢꣯ । पू꣣य꣡मा꣢नः । यू꣣य꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢꣯ । स꣡दा꣢꣯ । नः꣣ ॥१४०१॥
सम् । उ । प्रियः । मृज्यते । सानौ । अव्ये । यशस्तरः । यशसाम् । क्षैतः । अस्मेइति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१४०१॥