samveda/1359

स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥

सः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥

ऋषिः - पराशरः शाक्त्यः

देवता - पवमानः सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥

स्वर सहित पद पाठ

सः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥


स्वर रहित मन्त्र

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९॥


स्वर रहित पद पाठ

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । यत्र । नः । पूर्वे । पितरः । पदज्ञाः । पद । ज्ञाः । स्वर्विदः । स्वः । विदः । अभि । गाः । अद्रिम् । अ । द्रिम् । इष्णन् ॥१३५९॥