samveda/1330
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
द्विः꣢ । यम् । प꣡ञ्च꣢꣯ । स्व꣡य꣢꣯शसम् । स्व । य꣣शसम् । स꣡खा꣢꣯यः । स । खा꣣यः । अ꣡द्रि꣢सꣳहतम् । अ꣡द्रि꣢꣯ । स꣣ꣳहतम् । प्रिय꣣म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । प्र꣣स्नाप꣡य꣢न्ते । प्र꣣ । स्नाप꣡य꣢न्ते । ऊ꣣र्म꣡यः꣢ ॥१३३०॥
द्विः । यम् । पञ्च । स्वयशसम् । स्व । यशसम् । सखायः । स । खायः । अद्रिसꣳहतम् । अद्रि । सꣳहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्रस्नापयन्ते । प्र । स्नापयन्ते । ऊर्मयः ॥१३३०॥