samveda/1301
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा
देवता - पवमानाध्येता
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
पा꣣वमानीः꣢ । द꣣धन्तु । नः । इम꣢म् । लो꣣क꣢म् । अ꣡थ꣢꣯ । उ꣣ । अमु꣢म् । का꣡मा꣢꣯न् । सम् । अ꣣र्धयन्तु । नः । देवीः꣡ । दे꣣वैः꣡ । स꣣मा꣡हृ꣢ताः । स꣣म् । आ꣡हृ꣢꣯ताः ॥१३०१॥
पावमानीः । दधन्तु । नः । इमम् । लोकम् । अथ । उ । अमुम् । कामान् । सम् । अर्धयन्तु । नः । देवीः । देवैः । समाहृताः । सम् । आहृताः ॥१३०१॥