samveda/1234
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
त꣢म् । हि । स्व꣣रा꣡ज꣢म् । स्व꣣ । रा꣡ज꣢꣯म् । वृ꣣षभ꣢म् । तम् । ओ꣡ज꣢꣯सा । धि꣣ष꣡णे꣣इ꣡ति꣢ । नि꣣ष्टतक्ष꣡तुः꣢ । निः꣣ । ततक्ष꣡तुः꣢ । उ꣣त꣢ । उ꣣पमा꣡ना꣢म् । उ꣣प । मा꣡ना꣢꣯म् । प्र꣣थमः꣢ । नि । सी꣣दसि । सो꣡म꣢꣯कामम् । सो꣡म꣢꣯ । का꣣मम् । हि꣢ । ते꣣ । म꣡नः꣢꣯ ॥१२३४॥
तम् । हि । स्वराजम् । स्व । राजम् । वृषभम् । तम् । ओजसा । धिषणेइति । निष्टतक्षतुः । निः । ततक्षतुः । उत । उपमानाम् । उप । मानाम् । प्रथमः । नि । सीदसि । सोमकामम् । सोम । कामम् । हि । ते । मनः ॥१२३४॥