samveda/1128

अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥

अ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥

ऋषिः - असितः काश्यपो देवलो वा

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥

स्वर सहित पद पाठ

अ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥


स्वर रहित मन्त्र

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । विदाना अस्य योजना ॥११२८॥


स्वर रहित पद पाठ

असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुश्रियः । सु । श्रियः । विदानाः । अस्य । योजना ॥११२८॥