ऋषिः - कुत्सः

देवता - पवमानः सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

PreviousNext
स्वर सहित मन्त्र

इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्रा॑ः । हि॒न्वन्ति॒ धीरा॑ द॒शभि॒ः क्षिपा॑भि॒ः सम॑ञ्जते रू॒पम॒पां रसे॑न ॥

स्वर सहित पद पाठ

इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ । हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥


स्वर रहित मन्त्र

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥


स्वर रहित पद पाठ

इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः । न । गृध्राः । हिन्वन्ति । धीराः । दशऽभिः । क्षिपाभिः । सम् । अञ्जते । रूपम् । अपाम् । रसेन ॥