rigveda/9/97/35
ऋषिः - पराशरः शाक्त्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः । सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥
सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिऽभिः । पृच्छमानाः । सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रिऽस्तुभः । सम् । नवन्ते ॥