ऋषिः - पराशरः शाक्त्त्यः

देवता - पवमानः सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

PreviousNext
स्वर सहित मन्त्र

सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभि॑ः पृ॒च्छमा॑नाः । सोम॑ः सु॒तः पू॑यते अ॒ज्यमा॑न॒ः सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒ः सं न॑वन्ते ॥

स्वर सहित पद पाठ

सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः । सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥


स्वर रहित मन्त्र

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥


स्वर रहित पद पाठ

सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिऽभिः । पृच्छमानाः । सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रिऽस्तुभः । सम् । नवन्ते ॥