rigveda/9/96/24

आ ते॒ रुच॒: पव॑मानस्य सोम॒ योषे॑व यन्ति सु॒दुघा॑: सुधा॒राः । हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नाम् ॥

आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । हरिः॑ । आनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥

ऋषिः - प्रतर्दनो दैवोदासिः

देवता - पवमानः सोमः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ ते॒ रुच॒: पव॑मानस्य सोम॒ योषे॑व यन्ति सु॒दुघा॑: सुधा॒राः । हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नाम् ॥

स्वर सहित पद पाठ

आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । हरिः॑ । आनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥


स्वर रहित मन्त्र

आ ते रुच: पवमानस्य सोम योषेव यन्ति सुदुघा: सुधाराः । हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥


स्वर रहित पद पाठ

आ । ते । रुचः । पवमानस्य । सोम । योषाऽइव । यन्ति । सुऽदुघाः । सुऽधाराः । हरिः । आनीतः । पुरुऽवारः । अप्ऽसु । अचिक्रदत् । कलशे । देवऽयूनाम् ॥