rigveda/9/96/13
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पव॑स्व । सो॒म॒ । मधु॑ऽमान् । ऋ॒तऽवा॑ । अ॒पः । वसा॑नः । अधि॑ । सानौ॑ । अव्ये॑ । अव॑ । द्रोणा॑नि । घृ॒तऽव॑न्ति । सी॒द॒ । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपानः॑ ॥
पवस्व । सोम । मधुऽमान् । ऋतऽवा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृतऽवन्ति । सीद । मदिन्ऽतमः । मत्सरः । इन्द्रऽपानः ॥