rigveda/9/96/11

त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: । व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥

त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ । व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेऽभिः । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥

ऋषिः - प्रतर्दनो दैवोदासिः

देवता - पवमानः सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: । व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥

स्वर सहित पद पाठ

त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ । व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेऽभिः । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥


स्वर रहित मन्त्र

त्वया हि न: पितर: सोम पूर्वे कर्माणि चक्रुः पवमान धीरा: । वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥


स्वर रहित पद पाठ

त्वया । हि । नः । पितरः । सोम । पूर्वे । कर्माणि । चक्रुः । पवमान । धीराः । वन्वन् । अवातः । परिऽधीन् । अप । ऊर्णु । वीरेऽभिः । अश्वैः । मघऽवा । भव । नः ॥