rigveda/9/88/6

ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीची॑: सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥

ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः । वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥

ऋषिः - उशनाः

देवता - पवमानः सोमः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीची॑: सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥

स्वर सहित पद पाठ

ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः । वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥


स्वर रहित मन्त्र

एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीची: सुतासो अभि कलशाँ असृग्रन् ॥


स्वर रहित पद पाठ

एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रऽवर्षाः । वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥