rigveda/9/87/6

परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥

परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः । अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥

ऋषिः - उशनाः

देवता - पवमानः सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥

स्वर सहित पद पाठ

परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः । अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥


स्वर रहित मन्त्र

परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः । अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥


स्वर रहित पद पाठ

परि । हि । स्म । पुरुऽहूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः । अथ । आ । भर । श्येनऽभृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष ॥