rigveda/9/86/38
ऋषिः - त्रयऋषिगणाः
देवता - पवमानः सोमः
छन्दः - विराड्जगती
स्वरः - निषादः
त्वम् । नृ॒ऽचक्षाः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः॑ । पव॑मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ । सः । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । व॒यम् । स्या॒म॒ । भुव॑नेषु । जी॒वसे॑ ॥
त्वम् । नृऽचक्षाः । असि । सोम । विश्वतः । पवमान । वृषभ । ता । वि । धावसि । सः । नः । पवस्व । वसुऽमत् । हिरण्यऽवत् । वयम् । स्याम । भुवनेषु । जीवसे ॥