rigveda/9/86/33

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒: कनि॑क्रदत् । स॒हस्र॑धार॒: परि॑ षिच्यते॒ हरि॑: पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥

राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् । स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥

ऋषिः - त्रयऋषिगणाः

देवता - पवमानः सोमः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒: कनि॑क्रदत् । स॒हस्र॑धार॒: परि॑ षिच्यते॒ हरि॑: पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥

स्वर सहित पद पाठ

राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् । स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥


स्वर रहित मन्त्र

राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभि: कनिक्रदत् । सहस्रधार: परि षिच्यते हरि: पुनानो वाचं जनयन्नुपावसुः ॥


स्वर रहित पद पाठ

राजा । सिन्धूनाम् । पवते । पतिः । दिवः । ऋतस्य । याति । पथिऽभिः । कनिक्रदत् । सहस्रऽधारः । परि । सिच्यते । हरिः । पुनानः । वाचम् । जनयन् । उपऽवसुः ॥