rigveda/9/86/21
ऋषिः - पृश्नयोऽजाः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥
अयम् । पुनानः । उषसः । वि । रोचयत् । अयम् । सिन्धुऽभ्यः । अभवत् । ऊँ इति । लोकऽकृत् । अयम् । त्रिः । सप्त । दुदुहानः । आऽशिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥