rigveda/9/86/10
ऋषिः - अकृष्टा माषाः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
ज्योतिः॑ । य॒ज्ञस्य॑ । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । वि॒भुऽव॑सुः । दधा॑ति । रत्न॑म् । स्व॒धयोः॑ । अ॒पी॒च्य॑म् । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्रि॒यः । रसः॑ ॥
ज्योतिः । यज्ञस्य । पवते । मधु । प्रियम् । पिता । देवानाम् । जनिता । विभुऽवसुः । दधाति । रत्नम् । स्वधयोः । अपीच्यम् । मदिन्ऽतमः । मत्सरः । इन्द्रियः । रसः ॥