rigveda/9/83/4

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः । गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥

ऋषिः - पवित्रः

देवता - पवमानः सोमः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

स्वर सहित पद पाठ

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः । गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥


स्वर रहित मन्त्र

गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः । गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥


स्वर रहित पद पाठ

गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः । गृभ्णाति । रिपुम् । निऽधया । निधाऽपतिः । सुकृत्ऽतमाः । मधुनः । भक्षम् । आशत ॥