rigveda/9/78/4

गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥

ऋषिः - कविः

देवता - पवमानः सोमः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥

स्वर सहित पद पाठ

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥


स्वर रहित मन्त्र

गोजिन्न: सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥


स्वर रहित पद पाठ

गोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् । यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥