rigveda/9/77/2

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ । सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥

ऋषिः - कविः

देवता - पवमानः सोमः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

स्वर सहित पद पाठ

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ । सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥


स्वर रहित मन्त्र

स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रज: । स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥


स्वर रहित पद पाठ

सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः । सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥