rigveda/9/76/2
ऋषिः - कविः
देवता - पवमानः सोमः
छन्दः - विराड्जगती
स्वरः - निषादः
शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्वरिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु । इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥
शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वरिति स्वः । सिसासन् । रथिरः । गोऽइष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युऽभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिऽभिः ॥