ऋषिः - पवित्रः

देवता - पवमानः सोमः

छन्दः - निचृज्जगती

स्वरः - निषादः

PreviousNext
स्वर सहित मन्त्र

स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिण॑ः । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒ः स्पश॒ः स्वञ्च॑ः सु॒दृशो॑ नृ॒चक्ष॑सः ॥

स्वर सहित पद पाठ

स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ । रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥


स्वर रहित मन्त्र

सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः । रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥


स्वर रहित पद पाठ

सहस्रऽधारे । विऽतते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः । रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुऽअञ्चः । सुऽदृशः । नृऽचक्षसः ॥