rigveda/9/72/5

नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्रा॒: क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑: ॥

नृबा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ । आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥

ऋषिः - हरिमन्तः

देवता - पवमानः सोमः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्रा॒: क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑: ॥

स्वर सहित पद पाठ

नृबा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ । आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥


स्वर रहित मन्त्र

नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते । आप्रा: क्रतून्त्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वो३रासदद्धरि: ॥


स्वर रहित पद पाठ

नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते । आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥