rigveda/9/70/7
ऋषिः - रेनुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः । आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥
रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विऽचक्षणः । आ । योनिम् । सोमः । सुऽकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःऽनिक् । अव्ययी ॥