rigveda/9/63/11

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् । यो दू॒णाशो॑ वनुष्य॒ता ॥

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् । यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥

ऋषिः - निध्रुविः काश्यपः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् । यो दू॒णाशो॑ वनुष्य॒ता ॥

स्वर सहित पद पाठ

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् । यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥


स्वर रहित मन्त्र

पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् । यो दूणाशो वनुष्यता ॥


स्वर रहित पद पाठ

पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् । यः । दुःऽनशः । वनुष्यता ॥