rigveda/9/61/17
ऋषिः - अमहीयुः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः । वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥
पवमानस्य । ते । रसः । मदः । राजन् । अदुच्छुनः । वि । वारम् । अव्यम् । अर्षति ॥