ऋषिः - अयास्यः

देवता - पवमानः सोमः

छन्दः - ककुम्मतीगायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒ः कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑ः ॥

स्वर सहित पद पाठ

असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥


स्वर रहित मन्त्र

असृग्रन्देववीतयेऽत्यासः कृत्व्या इव । क्षरन्तः पर्वतावृधः ॥


स्वर रहित पद पाठ

असृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव । क्षरन्तः । पर्वतऽवृधः ॥