rigveda/9/42/4

दु॒हा॒नः प्र॒त्नमित्पय॑: प॒वित्रे॒ परि॑ षिच्यते । क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥

दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ । क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥

ऋषिः - मेध्यातिथिः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

दु॒हा॒नः प्र॒त्नमित्पय॑: प॒वित्रे॒ परि॑ षिच्यते । क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥

स्वर सहित पद पाठ

दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ । क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥


स्वर रहित मन्त्र

दुहानः प्रत्नमित्पय: पवित्रे परि षिच्यते । क्रन्दन्देवाँ अजीजनत् ॥


स्वर रहित पद पाठ

दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यते । क्रन्दन् । देवान् । अजीजनत् ॥