rigveda/9/27/5

ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ । प॒वित्रे॑ मत्स॒रो मद॑: ॥

ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ । प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥

ऋषिः - नृमेधः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ । प॒वित्रे॑ मत्स॒रो मद॑: ॥

स्वर सहित पद पाठ

ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ । प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥


स्वर रहित मन्त्र

एष सूर्येण हासते पवमानो अधि द्यवि । पवित्रे मत्सरो मद: ॥


स्वर रहित पद पाठ

एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि । पवित्रे । मत्सरः । मदः ॥