rigveda/9/24/4

त्वं सो॑म नृ॒माद॑न॒: पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्य॑: ॥

त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ । सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥

ऋषिः - असितः काश्यपो देवलो वा

देवता - पवमानः सोमः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

त्वं सो॑म नृ॒माद॑न॒: पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्य॑: ॥

स्वर सहित पद पाठ

त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ । सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥


स्वर रहित मन्त्र

त्वं सोम नृमादन: पवस्व चर्षणीसहे । सस्निर्यो अनुमाद्य: ॥


स्वर रहित पद पाठ

त्वम् । सोम । नृऽमादनः । पवस्व । चर्षणिऽसहे । सस्निः । यः । अनुऽमाद्यः ॥