ऋषिः - असितः काश्यपो देवलो वा

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒ः सुष्व॑ये वरिवो॒विद॑ः । स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑ः ॥

स्वर सहित पद पाठ

प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ । स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥


स्वर रहित मन्त्र

प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । स्वयं स्तोत्रे वयस्कृतः ॥


स्वर रहित पद पाठ

प्रऽवृण्वन्तः । अभिऽयुजः । सुस्वये । वरिवःऽविदः । स्वयम् । स्तोत्रे । वयःऽकृतः ॥